गैर्वाणा वयम् - स्पर्धाः नवम्बर् 2021
‘गैर्वाणा वयम्’ प्रतिदिनं रात्रौ 9 तः 10 वादनपर्यन्तं संस्कृतमाध्यमेन प्रचाल्यमानः clubhouse प्रकोष्ठः । गैर्वाणा वयम् प्रकोष्ठेन प्रतिमासं संस्कृतानुरागिणां कृते स्पर्धाः चाल्यन्ते ।
अस्मिन् मासे
कथावाचनस्पर्धा
दिनाङ्कः – 26-11-2021 शुक्रवासरे
समयः- रात्रौ 9 वादनतः

स्पर्धाविवरणम्
स्पर्धायां 6-20 वर्षीयाः भागं ग्रहीतुम् अर्हन्ति ।
स्पर्धा clubhouse द्वारा एव चलति । अतः स्पर्धासमये स्पर्धालुभिः गैर्वाणा वयम् इति clubhouse समूहः प्रवेष्टव्यः ।
लब्धे विषये 3 निमेषं यावत् संस्कृतेन भाषणीयम् ।
स्पर्धासमये कथायाः परिसन्धिः (link) गणे दास्यते । तद्दृष्ट्वा पठनीयम् ।
स्पर्धाकाले अन्तर्जालादितान्त्रिकसमस्याः भवन्ति चेत् पुनः प्रस्तुत्यै अवसरः न दास्यते ।
निर्णायकाणां निर्णयः एव अन्तिमः ।
फलितांशः  'गैर्वाणा वयं' clubhouse प्रकोष्ठे 27-10-2021 तमे दिनाङ्के 9-10 वादनपर्यन्तं प्रचाल्यमाने कार्यक्रमे उद्घोष्यते ।
आसक्ताः स्पर्धालवः अत्र पञ्जीकरणं कुर्युः । परिमितानाम् एव अवसरः अस्ति । चितानां सूचना email माध्यमेन स्पर्धायाः पूर्वस्मिन् दिने 25-11-2021 तमे दिनाङ्के सायं 5 वादनाभ्यन्तरे दास्यते ।


प्रथमपुरस्कारः-  500 रूप्यकाणां पुस्तकराशिः
द्वितीयपुरस्कारः- 400 रूप्यकाणां पुस्तकराशिः
तृतीयपुरस्कारः- 300 रूप्यकाणां पुस्तकराशिः
उत्तमानां 3-4 प्रस्तुतीनां प्रोत्साहनपुरस्कारः अपि प्रदास्यते ।

Email *
नाम *
वासस्थानम् *
दूरवाणीसङ्ख्या *
विद्यार्हता *
जन्मवर्षम् (Year of birth) *
पत्रालयसङ्केतः (Postal address) *
पिन् कोड् (pin/zip code) *
स्पर्धायाः विषये किमपि वक्तुम् इच्छति वा?
Submit
Clear form
Never submit passwords through Google Forms.
reCAPTCHA
This content is neither created nor endorsed by Google. Report Abuse - Terms of Service - Privacy Policy