अन्ताराष्ट्रिय संस्कृतदिनाचरणम् | संस्कृताभियानम् २०२१।
Notification No: INSD17/7/2021
अन्ताराष्ट्रिय संस्कृत-दिन-महोत्सवानुबन्धितया सम्प्रतिवार्तया संचाल्यमानं "संस्कृताभियानं २०२१" इति नाम्ना एकम् अन्तर्जालप्रसारणम् (
www.samprativartah.in मध्ये web casting) आयोक्ष्यते। तस्मिन् विद्यालयछात्रान् संस्कृताभिमुखान् कर्तुं छात्राणां विभिन्नप्रस्तुतयः श्रव्य-दृश्य-सुभगाः कार्यक्रमाः आयोक्ष्यन्ते।तदर्थं छात्रैः वा विद्यालयैः वा तेषां वीडियोखण्ड: Email अथवा टेेेेलग्राम् सुविधा द्वारा प्रेषणीयः।छात्राणां पञ्जीकरणं विद्यालयेन करणीयम्। पञ्जीकरण-संख्या शिक्षकस्य वाट्साप् मध्ये लप्स्यते। प्रसारणाय कार्यक्रमः स्वीक्रिते चेत् ऑण्लैन् प्रमाणपत्रम् दीयते च।
संस्कृत-कार्यक्रमाणां विवरणम्- निर्देशाः च।
१. भागयोग्याः संस्कृतकार्यक्रमाः
1. कवितोच्चारणं, 2. गानालपनं, 3. लघुभाषणं, 4. एकाभिनयः, 5. अभिनयगानालापनं (१२ वयस्कपर्यन्तेभ्यः), 6. कथाकथनम्, 7. शब्दानुकरणं, 8. हास्यकणिकावतरणं, 9. नृत्तादिप्रदर्शनं इत्येते श्रव्य-दृश्य-सुभगाः कार्यक्रमाः।(समयः 60-90 Sec.)
२. पञ्जीकरणम्
1. पञ्जीकरणाय अन्तिमतिथिः 2021 August 10* .
2. छात्राणां पञ्जीकरणं विद्यालयेन करणीयम्
(पञ्जीकरण-संख्या २४ होराभ्यन्तरे शिक्षकस्य वाट्साप् मध्ये लप्स्यते।
Each School Can participate in Three event only.
Each Sanskrit student can participate in one event only.
३. वीडियोखण्डस्य छायाग्रहणम्
1. एकैकः कार्यक्रमः ६० क्षणतः ९० क्षणं यावत् परिमितं भवतु।
2. चलदूरवाणीद्वारा संगृहीतं वीडियोखण्डम् तद्वदेव प्रेषणीयम्। (वीडियो Editing मास्तु )
3. वीडियोखण्डः गुणेन प्रसारणाय योग्यः भवेत्। ( High Quality )
4. वीडियोखण्डः तिरश्चीनतया (horizontal) संगृहीतः भवेत्।
४. वीडियोघण्डस्य प्रेषणम्
1. विडियो प्रेषणाय अन्तिमतिथिः 2021 July 29
2. छात्रैः वा विद्यालयैः वा तेषां वीडियोखण्ड: E-mail अथवा टेेेेलग्राम् सुविधा द्वारा प्रेषणीयः।
(E-mail
samprativartah@gmail.com Or
Telegram App No: +919400417084)
3. वीडियोखण्डेन सह 1. Registration No:, 2 Name of student, 3 Age, 4 Name of School, 5 State, 6 Country च लेखनीयम्।